वांछित मन्त्र चुनें
आर्चिक को चुनें

आ꣡ जु꣢होता ह꣣वि꣡षा꣢ मर्जय꣣ध्वं नि꣡ होता꣢꣯रं गृ꣣ह꣡प꣢तिं दधिध्वम् । इ꣣ड꣢स्प꣣दे꣡ नम꣢꣯सा रा꣣त꣡ह꣢व्यꣳ सप꣣र्य꣡ता꣢ यज꣣तं꣢ प꣣꣬स्त्या꣢꣯नाम् ॥६३

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

आ जुहोता हविषा मर्जयध्वं नि होतारं गृहपतिं दधिध्वम् । इडस्पदे नमसा रातहव्यꣳ सपर्यता यजतं पस्त्यानाम् ॥६३

मन्त्र उच्चारण
पद पाठ

आ꣢ । जु꣣होत । हवि꣡षा꣢ । म꣣र्जयध्वम् । नि꣢ । हो꣡ता꣢꣯रम् । गृ꣣ह꣡प꣢तिम् । गृ꣣ह꣢ । प꣣तिम् । दधिध्वम् । इडः꣢ । प꣣दे꣢ । न꣡म꣢꣯सा । रा꣣त꣡ह꣢व्यम् । रा꣣त । ह꣣व्यम् । सपर्य꣡त꣢ । य꣣जत꣢म् । प꣣स्त्या꣢꣯नाम् ॥६३॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 63 | (कौथोम) 1 » 2 » 2 » 1 | (रानायाणीय) 1 » 7 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में यह कहते हैं कि परमात्मा का सबको ध्यान और पूजन करना चाहिए।

पदार्थान्वयभाषाः -

हे स्तोताओ ! तुम (हविषा) आत्मसमर्पणरूप हवि से (आजुहोत) परमात्माग्नि में अग्निहोत्र करो, (मर्जयध्वम्) अपने आत्मा को शुद्ध और अलंकृत करो। (होतारम्) यज्ञ का फल देनेवाले (गृहपतिम्) शरीररूप घर के रक्षक उस परमात्माग्नि को (निदधिध्वम्) हृदय में धारण करो—अर्थात्, उसका निरन्तर ध्यान करो। (रातहव्यम्) दातव्य सांसारिक वस्तुओं को और सद्गुणों को देनेवाले, (पस्त्यानाम्) प्रजाओं के (यजतम्) पूजनीय उस परमात्माग्नि को (इडः पदे) हृदयरूप यज्ञवेदि-स्थल में (नमसा) नमस्कार द्वारा (सपर्यत) पूजो ॥१॥ इस मन्त्र में आजुहोत, मर्जयध्वम्, निदधिध्वम्, सपर्यत इन अनेक क्रियाओं का एक कर्ता कारक से सम्बन्ध होने के कारण दीपक अलङ्कार है ॥१॥

भावार्थभाषाः -

आत्म-कल्याण चाहनेवाले मनुष्यों को अपने आत्मा को परमात्मारूप अग्नि में समर्पित करके आत्मशुद्धि करनी चाहिए ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मा सर्वैर्ध्यातव्यः पूजनीयश्चेत्याह।

पदार्थान्वयभाषाः -

हे स्तोतारः ! यूयम् (हविषा) आत्मसमर्पणरूपेण हव्येन (आ जुहोत) आजुहुत, परमात्माग्नौ अग्निहोत्रं कुरुत। अत्र हविः आजुहुत इति प्राप्ते तृतीया च होश्छन्दसि।’ अ० २।३।३ इति जुहोतेः कर्मणि तृतीया। जुहोत इत्यत्र तप्तनप्तनथनाश्च।’ अ० ७।१।४५ इति लोण्मध्यमबहुवचनस्य तस्य स्थाने तप्, तस्य च पित्त्वेन ङिद्वद्भावाभावाद् गुणनिषेधो न। (मर्जयध्वम्) स्वात्मानं मार्जयत, शोधयत अलङ्कुरुत वा। मृज् शुद्धौ अलङ्कारे च, चुरादिः। (होतारम्) यज्ञफलप्रदातारम्, (गृहपतिम्) शरीरगृहस्य रक्षकं तं परमात्माग्निम् (निदधिध्वम्) हृदये निधारयत नितरां ध्यायत इत्यर्थः। निपूर्वो दध धारणे भ्वादिः, इडागमश्छान्दसः। (रातहव्यम्) रातं दत्तं हव्यं दातुं योग्यं सांसारिकवस्तुजातं सद्गुणजातं वा येन तम्, (पस्त्यानाम्१) प्रजानाम्। विशो वै पस्त्याः। श० ५।३।५।१९। (यजतम्) पूजनीयं तं परमात्माग्निम्। यज धातोः भृमृदृशियजि०’ उ० ३।११० इकि अतच् प्रत्ययः। (इडः पदे) इडः इडायाः पदे स्थाने, हृदयरूपयज्ञवेदिस्थले इत्यर्थः। इडा पृथिवीनाम। निघं० १।१। तथैव इड्शब्दोऽपि पृथिवीनामसु पठितव्यः। (नमसा) नमस्कारेण (सपर्यत) पूजयत। संहितायां जुहोता, सपर्यता इत्यत्र ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्।’ अ० ६।३।१३३ इत्यनेन दीर्घः ॥१॥ अत्र आजुहोत, मर्जयध्वम्, निदधिध्वम्, सपर्यत इत्यनेकक्रियाणामेककर्तृकारकसम्बन्धाद् दीपकालङ्कारः२ ॥१॥

भावार्थभाषाः -

आत्मकल्याणेप्सुभिर्जनैः स्वात्मानं परमात्माग्नौ समर्प्य स्वात्म- शुद्धिर्विधेया ॥१॥

टिप्पणी: १. पस्त्यानि गृहाणि तेषु ये निवसन्ति ते पस्त्याः—इति वि०। पस्त्याः गृहाः, गृहस्थानामित्यर्थः—इति भ०। यज्ञगृहाणाम्—इति सा०। २. अथ कारकमेकं स्यादनेकासु क्रियासु चेत्। सा० द० १०।४९ इति तल्लक्षणात्।